यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम् । तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि॑न्वात्पर॒मे स॒धस्थे॑ ॥
yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṁ jātavedasam | taṁ harāmi pitṛyajñāya devaṁ sa gharmam invāt parame sadhasthe ||
यः । अ॒ग्निः । क्र॒व्य॒ऽअत् । प्र॒ऽवि॒वेश॑ । वः॒ । गृ॒हम् । इ॒मम् । पश्य॑न् । इत॑रम् । जा॒तऽवे॑दसम् । तम् । ह॒रा॒मि॒ । पि॒तृ॒ऽयज्ञाय॑ । दे॒वम् । सः । घ॒र्मम् । इ॒न्वा॒त् । प॒र॒मे । स॒धऽस्थे॑ ॥ १०.१६.१०